devotionally made & hosted in India
Search
Mic
Android Play StoreIOS App Store
Ads Subscription Disabled
En
Setting
Clock
Ads Subscription DisabledRemove Ads
X

Lord Shiva Sahasranama Stotram | 1000 Names Stotram of Lord Shiva based on Rudrayamala

DeepakDeepak

Shiva Sahasranama Stotram

Sahasranama Stotram of Lord Shiva based on Rudrayamala

X

ॐ हिरण्यबाहुः सेनानीर्दिक्पतिस्तरुराट् हरः।

हरिकेशः पशुपतिर्महान् सस्पिञ्जरो मृडः॥1॥

विव्याधी बभ्लुशः श्रेष्ठः परमात्मा सनातनः।

सर्वान्नराट् जगत्कर्ता पुष्टेशो नन्दिकेश्वरः॥2॥

आततावी महारुद्रः संसारास्त्रः सुरेश्वरः।

उपवीतिरहन्त्यात्मा क्षेत्रेशो वननायकः॥3॥

रोहितः स्थपतिः सूतो वाणिजो मन्त्रिरुन्नतः।

वृक्षेशो हुतभुग्देवो भुवन्तिर्वारिवस्कृतः॥4॥

उच्चैर्घोषो घोररूपः पत्तीशः पाशमोचकः।

ओषधीशः पञ्चवक्त्रः कृत्स्नवीतो भयानकः॥5॥

सहमानः स्वर्णरेताः निव्याधिर्निरुपप्लवः।

आव्याधिनीशः ककुभो निषङ्गी स्तेनरक्षकः॥6॥

मन्त्रात्मा तस्कराध्यक्षो वञ्चकः परिवञ्चकः।

अरण्येशः परिचरो निचेरुः स्तायुरक्षकः॥7॥

प्रकृन्तेशो गिरिचरः कुलुञ्चेशो गुहेष्टदः।

भवः शर्वो नीलकण्ठः कपर्दी त्रिपुरान्तकः॥8॥

व्युप्तकेशो गिरिशयः सहस्राक्षः सहस्रपात्।

शिपिविष्टश्चन्द्रमौलिर्ह्रस्वो मीढुष्टमोऽनघः॥9॥

वामनो व्यापकः शूली वर्षीयानजडोऽनणुः।

ऊर्व्यः सूर्म्योऽग्रियः शीभ्यः प्रथमः पावकाकृतिः॥10॥

आचारस्तारकस्तारोऽवस्वन्योऽनन्तविग्रहः।

द्वीप्यः स्रोतस्य ईशानो धुर्यो गव्ययनो यमः॥11॥

पूर्वजोऽपरजो ज्येष्ठः कनिष्ठो विश्वलोचनः।

अपगल्भो मध्यमोर्म्यो जघन्यो बुध्नियः प्रभुः॥12॥

प्रतिसर्योऽनन्तरूपः सोभ्यो याम्यो सुराश्रयः।

खल्योर्वर्योऽभयः क्षेम्यः श्लोक्यः पथ्यो नभोऽग्रणीः॥13॥

वन्योऽवसान्यः पूतात्मा श्रवः कक्ष्यः प्रतिश्रवः।

आशुषेणो महासेनो महावीरो महारथः॥14॥

शूरोऽतिघातको वर्मी वरूथी बिल्मिरुद्यतः।

श्रुतसेनः श्रुतः साक्षी कवची वशकृद्वशी॥15॥

आहनन्योऽनन्यनाथो दुन्दुभ्योऽरिष्टनाशकः।

धृष्णुः प्रमृश इत्यात्मा वदान्यो वेदसम्मतः॥16॥

तीक्ष्णेषुपाणिः प्रहितः स्वायुधः शस्त्रवित्तमः।

सुधन्वा सुप्रसन्नात्मा विश्ववक्त्रः सदागतिः॥17॥

स्रुत्यः पथ्यो विश्वबाहुः काट्यो नीप्यो शुचिस्मितः।

सूद्यः सरस्यो वैशन्तो नाद्यः कूप्यो ऋषिर्मनुः॥18॥

सर्वो वर्ष्यो वर्षरूपः कुमारः कुशलोऽमलः।

मेघ्योऽवर्ष्योऽमोघशक्तिः विद्युत्योऽमोघविक्रमः॥19॥

दुरासदो दुराराध्यो निर्द्वन्द्वो दुःसहर्षभः।

ईध्रियः क्रोधशमनो जातुकर्णः पुरुष्टुतः॥20॥

आतप्यो वायुरजरो वात्यः कात्यायनीप्रियः।

वास्तव्यो वास्तुपो रेष्म्यो विश्वमूर्धा वसुप्रदः॥21॥

सोमस्ताम्रोऽरुणः शङ्गः रुद्रः सुखकरः सुकृत्।

उग्रोऽनुग्रो भीमकर्मा भीमो भीमपराक्रमः॥22॥

अग्रेवधो हनीयात्मा हन्ता दूरेवधो वधः।

शम्भुर्मयोभवो नित्यः शङ्करः कीर्तिसागरः॥23॥

मयस्करः शिवतरः खण्डपर्शुरजः शुचिः।

तीर्थ्यः कूल्योऽमृताधीशः पार्योऽवार्योऽमृताकरः॥24॥

शुद्धः प्रतरणो मुख्यः शुद्धपाणिरलोलुपः।

उच्च उत्तरणस्तार्यस्तार्यज्ञस्तार्यहृद्गतिः॥25॥

आतार्यः सारभूतात्मा सारग्राही दुरत्ययः।

आलाद्यो मोक्षदः पथ्योऽनर्थहा सत्यसङ्गरः॥26॥

शष्प्यः फेन्यः प्रवाह्योढा सिकत्यः सैकताश्रयः।

इरिण्यो ग्रामणीः पुण्यः शरण्यः शुद्धशासनः॥27॥

वरेण्यो यज्ञपुरुषो यज्ञेशो यज्ञनायकः।

यज्ञकर्ता यज्ञभोक्ता यज्ञविघ्नविनाशकः॥28॥

यज्ञकर्मफलाध्यक्षो यज्ञमूर्तिरनातुरः।

प्रपथ्यः किंशिलो गेह्यो गृह्यस्तल्प्यो धनाकरः॥29॥

पुलस्त्यः क्षयणो गोष्ठ्यो गोविन्दो गीतसत्क्रियः।

हृदय्यो हृद्यकृत् हृद्यो गह्वरेष्ठः प्रभाकरः॥30॥

निवेष्प्यो नियतोऽयन्ता पांसव्यः सम्प्रतापनः।

शुष्क्यो हरित्योऽपूतात्मा रजस्यः सात्विकप्रियः॥31॥

लोप्योलप्यः पर्णशद्यः पर्ण्यः पूर्णः पुरातनः।

भूतो भूतपतिर्भूपो भूधरो भूधरायुधः॥32॥

भूतसङ्घो भूतमूर्तिर्भूतहा भूतिभूषणः।

मदनो मादको माद्यो मदहा मधुरप्रियः॥33॥

मधुर्मधुकरः क्रूरो मधुरो मदनान्तकः।

निरञ्जनो निराधारो निर्लुप्तो निरुपाधिकः॥34॥

निष्प्रपञ्चो निराकारो निरीहो निरुपद्रवः।

सत्त्वः सत्त्वगुणोपेतः सत्त्ववित् सत्त्ववित्प्रियः॥35॥

सत्त्वनिष्ठः सत्त्वमूर्तिः सत्त्वेशः सत्त्ववित्तमः।

समस्तजगदाधारः समस्तगुणसागरः॥36॥

समस्तदुःखविध्वंसी समस्तानन्दकारणः।

रुद्राक्षमालाभरणो रुद्राक्षप्रियवत्सलः॥37॥

रुद्राक्षवक्षा रुद्राक्षरूपो रुद्राक्षपक्षकः।

विश्वेश्वरो वीरभद्रः सम्राट् दक्षमखान्तकः॥38॥

विघ्नेश्वरो विघ्नकर्ता गुरुर्देवशिखामणिः।

भुजगेन्द्रलसत्कण्ठो भुजङ्गाभरणप्रियः॥39॥

भुजङ्गविलसत्कर्णो भुजङ्गवलयावृतः।

मुनिवन्द्यो मुनिश्रेष्ठो मुनिवृन्दनिषेवितः॥40॥

मुनिहृत्पुण्डरीकस्थो मुनिसङ्घैकजीवनः।

मुनिमृग्यो वेदमृग्यो मृगहस्तो मुनीश्वरः॥41॥

मृगेन्द्रचर्मवसनो नरसिंहनिपातनः।

मृत्युञ्जयो मृत्युमृत्युरपमृत्युविनाशकः॥42॥

दुष्टमृत्युरदुष्टेष्टः मृत्युहा मृत्युपूजितः।

ऊर्ध्वो हिरण्यः परमो निधनेशो धनाधिपः॥43॥

यजुर्मूर्तिः साममूर्तिः ऋङ्मूर्तिर्मूर्तिवर्जितः।

व्यक्तो व्यक्ततमोऽव्यक्तो व्यक्ताव्यक्तस्तमो जवी॥44॥

लिङ्गमूर्तिरलिङ्गात्मा लिङ्गालिङ्गात्मविग्रहः।

ग्रहग्रहो ग्रहाधारो ग्रहाकारो ग्रहेश्वरः॥45॥

ग्रहकृद् ग्रहभिद् ग्राही ग्रहो ग्रहविलक्षणः।

कल्पाकारः कल्पकर्ता कल्पलक्षणतत्परः॥46॥

कल्पो कल्पाकृतिः कल्पनाशकः कल्पकल्पकः।

परमात्मा प्रधानात्मा प्रधानपुरुषः शिवः॥47॥

वेद्यो वैद्यो वेदवेद्यो वेदवेदान्तसंस्तुतः।

वेदवक्त्रो वेदजिह्वो विजिह्वो जिह्मनाशकः॥48॥

कल्याणरूपः कल्याणः कल्याणगुणसंश्रयः।

भक्तकल्याणदो भक्तकामधेनुः सुराधिपः॥49॥

पावनः पावको वामो महाकालो मदापहः।

घोरपातकदावाग्निर्दवभस्मकणप्रियः॥50॥

अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभः।

जगदेकप्रभुःस्वामी जगद्वन्द्यो जगन्मयः॥51॥

जगदानन्ददो जन्मजरामरणवर्जितः।

खट्वाङ्गी नीतिमान् सत्यो देवतात्माऽऽत्मसम्भवः॥52॥

कपालमालाभरणः कपाली विष्णुवल्लभः।

कमलासनकालाग्निः कमलासनपूजितः॥53॥

कालाधीशस्त्रिकालज्ञो दुष्टविग्रहवारकः।

नाट्यकर्ता नटपरो महानाट्यविशारदः॥54॥

विराड्रूपधरो धीरो वीरो वृषभवाहनः।

वृषाङ्को वृषभाधीशो वृषात्मा वृषभध्वजः॥55॥

महोन्नतो महाकायो महावक्षा महाभुजः।

महास्कन्धो महाग्रीवो महावक्त्रो महाशिराः॥56॥

महाहनुर्महादंष्ट्रो महदोष्ठो महोदरः।

सुन्दरभ्रूः सुनयनः सुललाटः सुकन्दरः॥57॥

सत्यवाक्यो धर्मवेत्ता सत्यज्ञः सत्यवित्तमः।

धर्मवान् धर्मनिपुणो धर्मो धर्मप्रवर्तकः॥58॥

कृतज्ञः कृतकृत्यात्मा कृतकृत्यः कृतागमः।

कृत्यवित् कृत्यविच्छ्रेष्ठः कृतज्ञप्रियकृत्तमः॥59॥

व्रतकृद् व्रतविच्छ्रेष्ठो व्रतविद्वान् महाव्रती।

व्रतप्रियो व्रताधारो व्रताकारो व्रतेश्वरः॥60॥

अतिरागी वीतरागी रागहेतुर्विरागवित्।

रागघ्नो रागशमनो रागदो रागिरागवित्॥61॥

विद्वान् विद्वत्तमो विद्वज्जनमानससंश्रयः।

विद्वज्जनाश्रयो विद्वज्जनस्तव्यपराक्रमः॥62॥

नीतिकृन्नीतिविन्नीतिप्रदाता नीतिवित्प्रियः।

विनीतवत्सलो नीतिस्वरूपो नीतिसंश्रयः॥63॥

क्रोधवित् क्रोधकृत् क्रोधिजनकृत् क्रोधरूपधृक्।

सक्रोधः क्रोधहा क्रोधिजनहा क्रोधकारणः॥64॥

गुणवान् गुणविच्छ्रेष्ठो निर्गुणो गुणवित्प्रियः।

गुणाधारो गुणाकारो गुणकृद् गुणनाशकः॥65॥

वीर्यवान् वीर्यविच्छ्रेष्ठो वीर्यविद्वीर्यसंश्रयः।

वीर्याकारो वीर्यकरो वीर्यहा वीर्यवर्धकः॥66॥

कालवित्कालकृत्कालो बलकृद् बलविद्बली।

मनोन्मनो मनोरूपो बलप्रमथनो बलः॥67॥

विश्वप्रदाता विश्वेशो विश्वमात्रैकसंश्रयः।

विश्वकारो महाविश्वो विश्वविश्वो विशारदः॥68॥

variation

विद्याप्रदाता विद्येशो विद्यामात्रैकसंश्रयः।

विद्याकारो महाविद्यो विद्याविद्यो विशारदः॥68॥

वसन्तकृद्वसन्तात्मा वसन्तेशो वसन्तदः।

ग्रीष्मात्मा ग्रीष्मकृद् ग्रीष्मवर्धको ग्रीष्मनाशकः॥69॥

प्रावृट्कृत् प्रावृडाकारः प्रावृट्कालप्रवर्तकः।

प्रावृट्प्रवर्धकः प्रावृण्णाथः प्रावृड्विनाशकः॥70॥

शरदात्मा शरद्धेतुः शरत्कालप्रवर्तकः।

शरन्नाथः शरत्कालनाशकः शरदाश्रयः॥71॥

हिमस्वरूपो हिमदो हिमहा हिमनायकः।

शैशिरात्मा शैशिरेशः शैशिरर्तुप्रवर्तकः॥72॥

प्राच्यात्मा दक्षिणाकारः प्रतीच्यात्मोत्तराकृतिः।

आग्नेयात्मा निरृतीशो वायव्यात्मेशनायकः॥73॥

ऊर्ध्वाधःसुदिगाकारो नानादेशैकनायकः।

सर्वपक्षिमृगाकारः सर्वपक्षिमृगाधिपः॥74॥

सर्वपक्षिमृगाधारो मृगाद्युत्पत्तिकारणः।

जीवाध्यक्षो जीववन्द्यो जीवविज्जीवरक्षकः॥75॥

जीवकृज्जीवहा जीवजीवनो जीवसंश्रयः।

ज्योतिःस्वरूपो विश्वात्मा विश्वनाथो वियत्पतिः॥76॥

वज्रात्मा वज्रहस्तात्मा वज्रेशो वज्रभूषितः।

कुमारगुरुरीशानो गणाध्यक्षो गणाधिपः॥77॥

पिनाकपाणिः सूर्यात्मा सोमसूर्याग्निलोचनः।

अपायरहितः शान्तो दान्तो दमयिता दमः॥78॥

ऋषिः पुराणपुरुषः पुरुषेशः पुरन्दरः।

कालाग्निरुद्रः सर्वेशः शमरूपः शमेश्वरः॥79॥

प्रलयानलकृद् दिव्यः प्रलयानलनाशकः।

त्रियम्बकोऽरिषड्वर्गनाशको धनदप्रियः॥80॥

अक्षोभ्यः क्षोभरहितः क्षोभदः क्षोभनाशकः।

सदम्भो दम्भरहितो दम्भदो दम्भनाशकः॥81॥

कुन्देन्दुशङ्खधवलो भस्मोद्धूलितविग्रहः।

भस्मधारणहृष्टात्मा तुष्टिः पुष्ट्यरिसूदनः॥82॥

स्थाणुर्दिगम्बरो भर्गो भगनेत्रभिदुद्यमः।

त्रिकाग्निः कालकालाग्निरद्वितीयो महायशाः॥83॥

सामप्रियः सामवेत्ता सामगः सामगप्रियः।

धीरोदात्तो महाधीरो धैर्यदो धैर्यवर्धकः॥84॥

लावण्यराशिः सर्वज्ञः सुबुद्धिर्बुद्धिमान्वरः।

तुम्बवीणः कम्बुकण्ठः शम्बरारिनिकृन्तनः॥85॥

शार्दूलचर्मवसनः पूर्णानन्दो जगत्प्रियः।

जयप्रदो जयाध्यक्षो जयात्मा जयकारणः॥86॥

जङ्गमाजङ्गमाकारो जगदुत्पत्तिकारणः।

जगद्रक्षाकरो वश्यो जगत्प्रलयकारणः॥87॥

पूषदन्तभिदुत्कृष्टः पञ्चयज्ञः प्रभञ्जकः।

अष्टमूर्तिर्विश्वमूर्तिरतिमूर्तिरमूर्तिमान्॥88॥

कैलासशिखरावासः कैलासशिखरप्रियः।

भक्तकैलासदः सूक्ष्मो मर्मज्ञः सर्वशिक्षकः॥89॥

सोमः सोमकलाकारो महातेजा महातपाः।

हिरण्यश्मश्रुरानन्दः स्वर्णकेशः सुवर्णदृक्॥90॥

ब्रह्मा विश्वसृगुर्वीशो मोचको बन्धवर्जितः।

स्वतन्त्रः सर्वमन्त्रात्मा द्युतिमानमितप्रभः॥91॥

पुष्कराक्षः पुण्यकीर्तिः पुण्यश्रवणकीर्तनः।

पुण्यमूर्तिः पुण्यदाता पुण्यापुण्यफलप्रदः॥92॥

सारभूतः स्वरमयो रसभूतो रसाश्रयः।

ॐकारः प्रणवो नादो प्रणतार्तिप्रभञ्जनः॥93॥

निकटस्थोऽतिदूरस्थो वशी ब्रह्माण्डनायकः।

मन्दारमूलनिलयो मन्दारकुसुमावृतः॥94॥

वृन्दारकप्रियतमो वृन्दारकवरार्चितः।

श्रीमाननन्तकल्याणपरिपूर्णो महोदयः॥95॥

महोत्साहो विश्वभोक्ता विश्वाशापरिपूरकः।

सुलभोऽसुलभो लभ्योऽलभ्यो लाभप्रवर्धकः॥96॥

लाभात्मा लाभदो वक्ता द्युतिमाननसूयकः।

ब्रह्मचारी दृढाचारी देवसिंहो धनप्रियः॥97॥

वेदपो देवदेवेशो देवदेवोत्तमोत्तमः।

बीजराजो बीजहेतुर्बीजदो बीजवृद्धिदः॥98॥

बीजाधारो बीजरूपो निर्बीजो बीजनाशकः।

परापरेशो वरदः पिङ्गलोऽयुग्मलोचनः॥99॥

पिङ्गलाक्षः सुरगुरुः गुरुः सुरगुरुप्रियः।

युगावहो युगाधीशो युगकृद्युगनाशकः॥100॥

कर्पूरगौरो गौरीशो गौरीगुरुगुहाश्रयः।

धूर्जटिः पिङ्गलजटो जटामण्डलमण्डितः॥101॥

मनोजवो जीवहेतुरन्धकासुरसूदनः।

लोकबन्धुः कलाधारः पाण्डुरः प्रमथाधिपः॥102॥

अव्यक्तलक्षणो योगी योगीशो योगपुङ्गवः।

श्रितावासो जनावासः सुरवासः सुमण्डलः॥103॥

भववैद्यो योगिवैद्यो योगिसिंहहृदासनः।

उत्तमोऽनुत्तमोऽशक्तः कालकण्ठो विषादनः॥104॥

आशास्यः कमनीयात्मा शुभः सुन्दरविग्रहः।

भक्तकल्पतरुः स्तोता स्तव्यः स्तोत्रवरप्रियः॥105॥

अप्रमेयगुणाधारो वेदकृद्वेदविग्रहः।

कीर्त्याधारः कीर्तिकरः कीर्तिहेतुरहेतुकः॥106॥

अप्रधृष्यः शान्तभद्रः कीर्तिस्तम्भो मनोमयः।

भूशयोऽन्नमयोऽभोक्ता महेष्वासो महीतनुः॥107॥

विज्ञानमय आनन्दमयः प्राणमयोऽन्नदः।

सर्वलोकमयो यष्टा धर्माधर्मप्रवर्तकः॥108॥

अनिर्विण्णो गुणग्राही सर्वधर्मफलप्रदः।

दयासुधार्द्रनयनो निराशीरपरिग्रहः॥109॥

परार्थवृत्तिर्मधुरो मधुरप्रियदर्शनः।

मुक्तादामपरीताङ्गो निःसङ्गो मङ्गलाकरः॥110॥

सुखप्रदः सुखाकारः सुखदुःखविवर्जितः।

विशृङ्खलो जगत्कर्ता जितसर्वः पितामहः॥111॥

अनपायोऽक्षयो मुण्डी सुरूपो रूपवर्जितः।

अतीन्द्रियो महामायो मायावी विगतज्वरः॥112॥

अमृतः शाश्वतः शान्तो मृत्युहा मूकनाशनः।

महाप्रेतासनासीनः पिशाचानुचरावृतः॥113॥

गौरीविलाससदनो नानागानविशारदः।

विचित्रमाल्यवसनो दिव्यचन्दनचर्चितः॥114॥

विष्णुब्रह्मादिवन्द्याङ्घ्रिः सुरासुरनमस्कृतः।

किरीटलेढिफालेन्दुर्मणिकङ्कणभूषितः॥115॥

रत्नाङ्गदाङ्गो रत्नेशो रत्नरञ्जितपादुकः।

नवरत्नगणोपेतकिरीटी रत्नकञ्चुकः॥116॥

नानाविधानेकरत्नलसत्कुण्डलमण्डितः।

दिव्यरत्नगणाकीर्णकण्ठाभरणभूषितः॥117॥

गलव्यालमणिर्नासापुटभ्राजितमौक्तिकः।

रत्नाङ्गुलीयविलसत्करशाखानखप्रभः॥118॥

रत्नभ्राजद्धेमसूत्रलसत्कटितटः पटुः।

वामाङ्कभागविलसत्पार्वतीवीक्षणप्रियः॥119॥

लीलावलम्बितवपुर्भक्तमानसमन्दिरः।

मन्दमन्दारपुष्पौघलसद्वायुनिषेवितः॥120॥

कस्तूरीविलसत्फालो दिव्यवेषविराजितः।

दिव्यदेहप्रभाकूटसन्दीपितदिगन्तरः॥121॥

देवासुरगुरुस्तव्यो देवासुरनमस्कृतः।

हस्तराजत्पुण्डरीकः पुण्डरीकनिभेक्षणः॥122॥

सर्वाशास्यगुणोऽमेयः सर्वलोकेष्टभूषणः।

सर्वेष्टदाता सर्वेष्टः स्फुरन्मङ्गलविग्रहः॥123॥

अविद्यालेशरहितो नानाविद्यैकसंश्रयः।

मूर्तिभवः कृपापूरो भक्तेष्टफलपूरकः॥124॥

सम्पूर्णकामः सौभाग्यनिधिः सौभाग्यदायकः।

हितैषी हितकृत्सौम्यः परार्थैकप्रयोजनः॥125॥

शरणागतदीनार्तपरित्राणपरायणः।

जिष्णुर्नेता वषट्कारो भ्राजिष्णुर्भोजनं हविः॥126॥

भोक्ता भोजयिता जेता जितारिर्जितमानसः।

अक्षरः कारणं क्रुद्धसमरः शारदप्लवः॥127॥

आज्ञापकेच्छो गम्भीरः कविर्दुःस्वप्ननाशकः।

पञ्चब्रह्मसमुत्पत्तिः क्षेत्रज्ञः क्षेत्रपालकः॥128॥

व्योमकेशो भीमवेषो गौरीपतिरनामयः।

भवाब्धितरणोपायो भगवान् भक्तवत्सलः॥129॥

वरो वरिष्ठो नेदिष्ठः प्रियः प्रियदवः सुधीः।

यन्ता यविष्ठः क्षोदिष्ठो स्थविष्ठो यमशासकः॥130॥

हिरण्यगर्भो हेमाङ्गो हेमरूपो हिरण्यदः।

ब्रह्मज्योतिरनावेक्ष्यश्चामुण्डाजनको रविः॥131॥

मोक्षार्थिजनसंसेव्यो मोक्षदो मोक्षनायकः।

महाश्मशाननिलयो वेदाश्वो भूरथः स्थिरः॥132॥

मृगव्याधो चर्मधामा प्रच्छन्नः स्फटिकप्रभः।

सर्वज्ञः परमार्थात्मा ब्रह्मानन्दा्रयो विभुः॥133॥

महेश्वरो महादेवः परब्रह्म सदाशिव॥134॥

॥ इति श्रीमुख्यशिवसहस्रनामस्तोत्रं सम्पूर्णम् ॥
Name
Name
Email
Sign-in with your Google account to post a comment on Drik Panchang.
Comments
Show more ↓
Kalash
Copyright Notice
PanditJi Logo
All Images and data - Copyrights
Ⓒ www.drikpanchang.com
Privacy Policy
Drik Panchang and the Panditji Logo are registered trademarks of drikpanchang.com
Android Play StoreIOS App Store
Drikpanchang Donation