devotionally made & hosted in India
Search
Mic
Android Play StoreIOS App Store
Ads Subscription Disabled
En
Setting
Clock
Ads Subscription DisabledRemove Ads
X

Narasimha Kavacham - Sanskrit Lyrics and Video Song

DeepakDeepak

Narasimha Kavacham

Narasimha Kavacham is a popular hymn dedicated to Lord Narasimha. Devotees of Lord Narasimha recite this Kavacham to protect themselves from enemies and to overcome troubles. Lord Narasimha is one of the ten incarnations of Lord Vishnu described in Hindu Vedic scriptures.

॥ अथ श्री नृसिंहकवचम् ॥

नृसिंहकवचं वक्ष्येप्रह्लादेनोदितं पुरा।

सर्वरक्षाकरं पुण्यंसर्वोपद्रवनाशनम्॥1॥

सर्व सम्पत्करं चैवस्वर्गमोक्षप्रदायकम्।

ध्यात्वा नृसिंहं देवेशंहेमसिंहासनस्थितम्॥2॥

विवृतास्यं त्रिनयनंशरदिन्दुसमप्रभम्।

लक्ष्म्यालिङ्गितवामाङ्गंविभूतिभिरुपाश्रितम्॥3॥

चतुर्भुजं कोमलाङ्गंस्वर्णकुण्डलशोभितम्।

सरोजशोभितोरस्कंरत्नकेयूरमुद्रितम्॥4॥

तप्तकाञ्चनसंकाशंपीतनिर्मलवाससम्।

इन्द्रादिसुरमौलिस्थ -स्फुरन्माणिक्यदीप्तिभिः॥5॥

विराजितपदद्वन्द्वंशङ्खचक्रादि हेतिभिः।

गरुत्मता च विनयात्स्तूयमानं मुदान्वितम्॥6॥

स्वहृत्कमलसंवासंकृत्वा तु कवचं पठेत्।

नृसिंहो मे शिरःपातु लोकरक्षार्थसम्भवः॥7॥

सर्वगोऽपि स्तम्भवासःभालं मे रक्षतु ध्वनिम्।

नृसिंहो मे दृशौ पातुसोमसूर्याग्निलोचनः॥8॥

स्मृतिं मे पातुनृहरिर्मुनिवर्यस्तुतिप्रियः।

नासं मे सिंहनासस्तुमुखं लक्ष्मीमुखप्रियः॥9॥

सर्वविद्याधिपः पातुनृसिंहो रसनां मम।

वक्त्रं पात्विन्दुवदनंसदा प्रह्लादवन्दितः॥10॥

नृसिंहः पातु मे कण्ठंस्कन्धौ भूभरान्तकृत्।

दिव्यास्त्रशोभितभुजोनृसिंहः पातु मे भुजौ॥11॥

करौ मे देववरदोनृसिंहः पातु सर्वतः।

हृदयं योगिसाध्यश्चनिवासं पातु मे हरिः॥12॥

मध्यं पातुहिरण्याक्षवक्षःकुक्षिविदारणः।

नाभिं मे पातु नृहरिःस्वनाभि ब्रह्मसंस्तुतः॥13॥

ब्रह्माण्डकोटयः कट्यांयस्यासौ पातु मे कटिम्।

गुह्यं मे पातु गुह्यानांमन्त्राणां गुह्यरूपदृक्॥14॥

ऊरु मनोभवः पातुजानुनी नररूपधृक्।

जङ्घे पातु धराभारहर्तायोऽसौ नृकेसरी॥15॥

सुरराज्यप्रदः पातुपादौ मे नृहरीश्वरः।

सहस्रशीर्षा पुरुषःपातु मे सर्वशस्तनुम्॥16॥

महोग्रः पूर्वतः पातुमहावीराग्रजोऽग्नितः।

महाविष्णुर्दक्षिणे तुमहाज्वालस्तु नैरृतौ॥17॥

पश्चिमे पातु सर्वेशोदिशि मे सर्वतोमुखः।

नृसिंहः पातु वायव्यांसौम्यां भीषणविग्रहः॥18॥

ईशान्यां पातु भद्रोमे सर्वमङ्गलदायकः।

संसारभयतः पातुमृत्योर्मृत्युर्नृकेसरी॥19॥

॥ फल श्रुति ॥

इदं नृसिंहकवचंप्रह्लादमुखमण्डितम्।

भक्तिमान् यः पठेन्नित्यंसर्वपापैः प्रमुच्यते॥20॥

पुत्रवान् धनवान् लोकेदीर्घायुरुपजायते।

यं यं कामयते कामंतं तं प्राप्नोत्यसंशयम्॥21॥

सर्वत्र जयमाप्नोतिसर्वत्र विजयी भवेत्।

भूम्यन्तरीक्षदिव्यानांग्रहाणां विनिवारणम्॥22॥

वृश्चिकोरगसम्भूतविषापहरणं परम्।

ब्रह्मराक्षसयक्षाणांदूरोत्सारणकारणम्॥23॥

भूर्जे वा तालपत्रे वाकवचं लिखितं शुभम्।

करमूले धृतं येनसिध्येयुः कर्मसिद्धयः॥24॥

देवासुरमनुष्येषु स्वंस्वमेव जयं लभेत्।

एकसन्ध्यं त्रिसन्ध्यंवा यः पठेन्नियतो नरः॥25॥

सर्वमङ्गलमाङ्गल्यं भुक्तिंमुक्तिं च विन्दति।

द्वात्रिंशतिसहस्राणि पठेत्शुद्धात्मनां नृणाम्॥26॥

कवचस्यास्य मन्त्रस्यमन्त्रसिद्धिः प्रजायते।

अनेन मन्त्रराजेनकृत्वा भस्माभिमन्त्रणम्॥27॥

तिलकं विन्यसेद्यस्तुतस्य ग्रहभयं हरेत्।

त्रिवारं जपमानस्तुदत्तं वार्यभिमन्त्र्य च॥28॥

प्राशयेद्यो नरो मन्त्रंनृसिंहध्यानमाचरेत्।

तस्य रोगाः प्रणश्यन्तिये च स्युः कुक्षिसम्भवाः॥29॥

किमत्र बहुनोक्तेननृसिंहसदृशो भवेत्।

मनसा चिन्तितं यत्तुस तच्चाप्नोत्यसंशयम्॥30॥

गर्जन्तं गर्जयन्तं निजभुजपटलंस्फोटयन्तं हठन्तं

रूप्यन्तं तापयन्तं दिवि भुविदितिजं क्षेपयन्तं क्षिपन्तम्।

क्रन्दन्तं रोषयन्तं दिशि दिशिसततं संहरन्तं भरन्तं

वीक्षन्तं घूर्णयन्तंशरनिकरशतैर्दिव्यसिंहं नमामि॥31॥

॥ इति श्रीब्रह्माण्डपुराणे नारदागस्तिसंवादे प्रह्लादप्रोक्तं
श्रीनृसिंहकवचं अथवा श्रीलक्ष्मीनृसिंहकवचं सम्पूर्णमस्तु ॥
Name
Name
Email
Sign-in with your Google account to post a comment on Drik Panchang.
Comments
Show more ↓
Kalash
Copyright Notice
PanditJi Logo
All Images and data - Copyrights
Ⓒ www.drikpanchang.com
Privacy Policy
Drik Panchang and the Panditji Logo are registered trademarks of drikpanchang.com
Android Play StoreIOS App Store
Drikpanchang Donation