॥ नवग्रह स्तोत्रम् ॥
जपाकुसुमसंकाशंकाश्यपेयं महाद्युतिम्।
तमोऽरिं सर्वपापघ्नंप्रणतोऽस्मि दिवाकरम्॥1॥
दधिशङ्खतुषाराभंक्षीरोदार्णवसंभवम्।
नमामि शशिनं सोमंशम्भोर्मुकुटभूषणम्॥2॥
धरणीगर्भसंभूतंविद्युत्कान्तिसमप्रभम्।
कुमारं शक्तिहस्तंतं मङ्गलं प्रणमाम्यहम्॥3॥
प्रियङ्गुकलिकाश्यामंरूपेणाप्रतिमं बुधम्।
सौम्यं सौम्यगुणोपेतंतं बुधं प्रणमाम्यहम्॥4॥
देवानां च ऋषीणां चगुरुं काञ्चनसंनिभम्।
बुद्धिभूतं त्रिलोकेशंतं नमामि बृहस्पतिम्॥5॥
हिमकुन्दमृणालाभंदैत्यानां परमं गुरुम्।
सर्वशास्त्रप्रवक्तारंभार्गवं प्रणमाम्यहम्॥6॥
नीलांजनसमाभासंरविपुत्रं यमाग्रजम्।
छायामार्तण्डसंभूतंतं नमामि शनैश्चरम्॥7॥
अर्धकायं महावीर्यंचन्द्रादित्यविमर्दनम्।
सिंहिकागर्भसंभूतंतं राहुं प्रणमाम्यहम्॥8॥
पलाशपुष्पसंकाशंतारकाग्रहमस्तकम्।
रौद्रं रौद्रात्मकं घोरंतं केतुं प्रणमाम्यहम्॥9॥