devotionally made & hosted in India
Search
Mic
Android Play StoreIOS App Store
Ads Subscription Disabled
En
Setting
Clock
Ads Subscription DisabledRemove Ads
X

Shitala Ashtakam | Shitalashtakam - Sanskrit Lyrics and Video Song

DeepakDeepak

Shitala Ashtakam

Vandeaham Shitalam Devim is the most famous Ashtakam of Goddess Shitala. This famous Ashtakam is recited on most occasions related to Goddess Shitala.

॥ अथ श्रीशीतलाष्टकम् ॥

॥ विनियोग ॥

अस्य श्रीशीतलास्तोत्रस्यमहादेव ऋषिः।

अनुष्टुप् छन्दः।शीतला देवता।

लक्ष्मीर्बीजम्।भवानी शक्तिः।

सर्वविस्फोटकनिवृत्यर्थेजपे विनियोगः॥

ईश्वर उवाच।

वन्देऽहं शीतलां देवींरासभस्थां दिगम्बराम्।

मार्जनीकलशोपेतांशूर्पालङ्कृतमस्तकाम्॥1॥

वन्देऽहं शीतलां देवींसर्वरोगभयापहाम्।

यामासाद्य निवर्तेतविस्फोटकभयं महत्॥2॥

शीतले शीतले चेतियो ब्रूयद्दाहपीडितः।

विस्फोटकभयं घोरंक्षिप्रं तस्य प्रणश्यति॥3॥

यस्त्वामुदकमध्ये तुध्यात्वा सम्पूजयेन्नरः।

विस्फोटकभयं घोरंगृहे तस्य न जायते॥4॥

शीतले ज्वरदग्धस्यपूतिगन्धयुतस्य च।

प्रणष्टचक्षुषःपुंसस्त्वामाहुर्जीवनौषधम्॥5॥

शीतले तनुजान् रोगान्नृणां हरसि दुस्त्यजान्।

विस्फोटकविदीर्णानांत्वमेकाऽमृतवर्षिणी॥6॥

गलगण्डग्रहा रोगा येचान्ये दारुणा नृणाम्।

त्वदनुध्यानमात्रेणशीतले यान्ति सङ्क्षयम्॥7॥

न मन्त्रो नौषधं तस्यपापरोगस्य विद्यते।

त्वामेकां शीतले धात्रींनान्यां पश्यामि देवताम्॥8॥

॥ फल श्रुति ॥

मृणालतन्तुसदृशींनाभिहृन्मध्यसंस्थिताम्।

यस्त्वां सञ्चिन्तयेद्देवितस्य मृत्युर्न जायते॥9॥

अष्टकं शीतलादेव्यायो नरः प्रपठेत्सदा।

विस्फोटकभयं घोरंगृहे तस्य न जायते॥10॥

श्रोतव्यं पठितव्यं चश्रद्धाभाक्तिसमन्वितैः।

उपसर्गविनाशायपरं स्वस्त्ययनं महत्॥11॥

शीतले त्वं जगन्माताशीतले त्वं जगत्पिता।

शीतले त्वं जगद्धात्रीशीतलायै नमो नमः॥12॥

रासभो गर्दभश्चैवखरो वैशाखनन्दनः।

शीतलावाहनश्चैवदूर्वाकन्दनिकृन्तनः॥13॥

एतानि खरनामानिशीतलाग्रे तु यः पठेत्।

तस्य गेहे शिशूनां चशीतलारुङ् न जायते॥14॥

शीतलाष्टकमेवेदं नदेयं यस्यकस्यचित्।

दातव्यं च सदा तस्मैश्रद्धाभक्तियुताय वै॥15॥

॥ इति श्रीस्कन्दपुराणे शीतलाष्टकं सम्पूर्णम् ॥
Name
Name
Email
Sign-in with your Google account to post a comment on Drik Panchang.
Comments
Show more ↓
Kalash
Copyright Notice
PanditJi Logo
All Images and data - Copyrights
Ⓒ www.drikpanchang.com
Privacy Policy
Drik Panchang and the Panditji Logo are registered trademarks of drikpanchang.com
Android Play StoreIOS App Store
Drikpanchang Donation