॥ अथ श्रीशीतलाकवचम् ॥
भगवन् सर्वधर्मज्ञसर्वशास्त्रविशारद।
शीतलाकवचं ब्रूहिसर्वभूतोपकारकम्॥1॥
वद शीघ्रं महादेव!कृपां कुरु ममोपरि।
इति देव्याः वचो श्रुत्वाक्षणं ध्यात्वा महेश्वरः॥2॥
उवाच वचनं प्रीत्यातत्शृणुष्व मम प्रिये।
शीतलाकवचं दिव्यंशृणु मत्प्राणवल्लभे॥3॥
शीतलासारसर्वस्वंकवचं मन्त्रगर्भितम्।
कवचं विना जपेत् योवै नैव सिद्धयन्ति कलौ॥4॥
धारणादस्य मन्त्रस्यसर्वरक्षाकरनृणाम्।
कवचस्यास्य देवेशि!ऋषिर्पोक्तो महेश्वरः।
छन्दोऽनुष्टुप् कथितं चदेवता शीतला स्मृता।
लक्ष्मीबीजं रमा शक्तिःतारं कीलकमीरितम्॥5॥
लूताविस्फोटकादीनिशान्त्यर्थे परिकीर्तितः।
विनियोगः प्रकुर्वीतपठेदेकाग्रमानसः॥6॥
ॐ अस्य शीतलाकवचस्यश्रीमहेश्वर ऋषिः अनुष्टुप्छन्दः,
श्रीशीतला भगवती देवता,श्रीं बीजं, ह्रीं शक्तिः,
ॐ कीलकं लूताविस्फोटकादिशान्त्यर्थेपाठे विनियोगः॥
श्रीमहेश्वरऋषये नमः शिरसिअनुष्टुप् छन्दसे नमः मुखे,
श्रीशीतला भगवती देवतायै नमः हृदिश्री बीजाय नमः गुह्ये
ह्रीं शक्तये नमः नाभौ,ॐ कीलकाय नमः पादयो
लूताविस्फोटकादिशान्त्यर्थेपाठे विनियोगाय नमः सर्वाङ्गे॥
उद्यत्सूर्यनिभां नवेन्दुमुकुटांसूर्याग्निनेत्रोज्ज्वलां
नानागन्धविलेपनां मृदुतनुंदिव्याम्बरालङ्कृताम्।
दोर्भ्यां सन्दधतीं वराभययुगंवाहे स्थितां रासभे
भक्ताभीष्टफलप्रदां भगवतींश्रीशीतलां त्वां भजे॥
॥ अथ कवचमूलपाठः ॥
ॐ शीतला पातु मे प्राणेरुनुकी पातु चापाने।
समाने झुनुकी पातुउदाने पातु मन्दला॥1॥
व्याने च सेढला पातुमनुर्मे शाङ्करी तथा।
पातु मामिन्द्रियान् सर्वान्श्रीदुर्गा विन्ध्यवासिनी॥2॥
ॐ मम पातु शिरो दुर्गाकमला पातु मस्तकम्।
ह्रीं मे पातु भ्रुवोर्मध्येभवानी भुवनेश्वरी॥
पातु मे मधुमती देवीॐकारं भृकुटीद्वयम्॥3॥
नासिकां शारदा पातुतमसा वर्त्मसंयुतम्।
नेत्रौ ज्वालामुखी पातुभीषणा पातु श्रुतिर्मे॥4॥
कपोलौ कालिका पातुसुमुखी पातु चोष्ठयोः।
सन्ध्ययोः त्रिपुरा पातुदन्ते च रक्तदन्तिका॥5॥
जिह्वां सरस्वती पातुतालुके व वाग्वादिनी।
कण्ठे पातु तु मातङ्गीग्रीवायां भद्रकालिका॥6॥
स्कन्धौ च पातु मे छिन्नाककुमे स्कन्दमातरः।
बाहुयुग्मौ च मे पातुश्रीदेवी बगलामुखी॥7॥
करौ मे भैरवी पातुपृष्ठे पातु धनुर्धरी।
वक्षःस्थले च मे पातुदुर्गा महिषमर्दिनी॥8॥
हृदये ललिता पातुकुक्षौ पातु मघेश्वरी।
पार्ष्वौ च गिरिजा पातुचान्नपूर्णा तु चोदरम्॥9॥
नाभिं नारायणी पातुकटिं मे सर्वमङ्गला।
जङ्घयोर्मे सदा पातुदेवी कात्यायनी पुरा॥10॥
ब्रह्माणी शिश्नं पातुवृषणं पातु कपालिनी।
गुह्यं गुह्येश्वरी पातुजानुनोर्जगदीश्वरी॥11॥
पातु गुल्फौ तु कौमारीपादपृष्ठं तु वैष्णवी।
वाराही पातु पादाग्रेऐन्द्राणी सर्वमर्मसु॥12॥
मार्गे रक्षतु चामुण्डावने तु वनवासिनी।
जले च विजया रक्षेत्वह्नौ मे चापराजिता॥13॥
रणे क्षेमकरी रक्षेत्सर्वत्र सर्वमङ्गला।
भवानी पातु बन्धून् मेभार्या रक्षतु चाम्बिका॥14॥
पुत्रान् रक्षतु माहेन्द्रीकन्यकां पातु शाम्भवी।
गृहेषु सर्वकल्याणीपातु नित्यं महेश्वरी॥15॥
पूर्वे कादम्बरी पातुवह्नौ शुक्लेश्वरी तथा।
दक्षिणे करालिनी पातुप्रेतारुढा तु नैरृते॥16॥
पाशहस्ता पश्चिमे पातुवायव्ये मृगवाहिनी।
पातु मे चोत्तरे देवीयक्षिणी सिंहवाहिनी।
ईशाने शूलिनी पातुऊर्ध्वे च खगगामिनी॥17॥
अधस्तात्वैष्णवी पातुसर्वत्र नारसिंहिका।
प्रभाते सुन्दरी पातुमध्याह्ने जगदम्बिका॥18॥
सायाह्ने चण्डिका पातुनिशीथेऽत्र निशाचरी।
निशान्ते खेचरी पातुसर्वदा दिव्ययोगिनी॥19॥
वायौ मां पातु वेतालीवाहने वज्रधारिणी।
सिंहा सिंहासने पातुशय्यां च भगमालिनी॥20॥
सर्वरोगेषु मां पातुकालरात्रिस्वरुपिणी।
यक्षेभ्यो यक्षिणी पातुराक्षसे डाकिनी तथा॥21॥
भूतप्रेतपिशाचेभ्यो हाकिनीपातु मां सदा।
मन्त्रं मन्त्राभिचारेषुशाकिनी पातु मां सदा॥22॥
सर्वत्र सर्वदा पातुश्रीदेवी गिरिजात्मजा।
इत्येतत्कथितं गुह्यंशीतलाकवचमुत्तमम्॥23॥
॥ फलश्रुतिः ॥
ब्रह्मराक्षसवेतालाःकूष्माण्डा दानवादयः।
विस्फोटकभयं नास्तिपठनाद्धारणाद्यदि॥1॥
अष्टसिद्धिप्रदं नित्यंधारणात्कवचस्य तु।
सहस्त्रपठनात्सिद्धिःसर्वकार्यार्थसिद्धिदम्॥2॥
तदर्धं वा तदर्धं वापठेदेकाग्रमानसः।
अश्वमेधसहस्रस्यफलमाप्नोति मानवः॥3॥
शीतलाग्रे पठेद्यो वैदेवीभक्तैकमानसः।
शीतला रक्षयेन्नित्यंभयं क्वापि न जायते॥4॥
घटे वा स्थापयेद्देवीदीपं प्रज्वाल्य यत्नतः।
पूजयेत्जगतां धात्रीनाना गन्धोपहारकैः॥5॥
अदीक्षिताय नो दद्यातकुचैलाय दुरात्मने।
अन्यशिष्याय दुष्टायनिन्दकाय दुरार्थिने॥6॥
न दद्यादिदं वर्म तुप्रमत्तालापशालिने।
दीक्षिताय कुलीनायगुरुभक्तिरताय च॥7॥
शान्ताय कुलशाक्तायशान्ताय कुलकौलिने।
दातव्यं तस्य देवेशि!कुलवागीश्वरो भवेत्॥8॥
इदं रहस्यं परमंशीतलाकवचमुत्तमम्।
गोप्यं गुह्यतमं दिव्यंगोपनीयं स्वयोनिवत्॥9॥








