॥ वैभव प्रदाता श्री सूक्त ॥
ॐ हिरण्यवर्णांहरिणीं सुवर्णरजतस्रजाम्।
चन्द्रां हिरण्मयीं लक्ष्मींजातवेदो मऽआवह॥1॥
ॐ तां मऽआवह जातवेदोलक्ष्मीमनपगामिनीम्।
यस्यां हिरण्यं विन्देयंगामश्वं पुरुषानहम्॥2॥
ॐ अश्वपूर्वां रथमध्यांहस्तिनाद प्रमोदिनीम्।
श्रियं देवीमुपव्हयेश्रीर्मा देवीजुषताम्॥3॥
ॐ कां सोस्मितां हिरण्यप्राकारामार्द्रांज्वलन्तीं तृप्तां तर्पयन्तीम्।
पद्मेस्थितां पद्मवर्णांतामिहोपह्वये श्रियम्॥4॥
ॐ चन्द्रां प्रभासां यशसा ज्वलन्तींश्रियं लोके देवजुष्टामुदाराम्।
तां पद्मनीमीं शरणंप्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणोमि॥5॥
ॐ आदित्यवर्णे तपसोऽधिजातोवनस्पतिस्तव वृक्षोऽथ बिल्वः।
तस्य फलानि तपसानुदन्तुय अन्तरा याश्च बाह्या अलक्ष्मीः॥6॥
ॐ उपैतु मां देवसखःकीर्तिश्च मणिना सह।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन्कीर्तिमृद्धिं ददातु मे॥7॥
ॐ क्षुत्पिपासामलांज्येष्ठामलक्ष्मीं नाशयाम्यहम्।
अभूतिमसमृद्धिं चसर्वां निर्णुद मे गृहात्॥8॥
ॐ गन्धद्वारां दुराधर्षांनित्यपुष्टां करीषिणीम्।
ईश्वरीं सर्वभूतानांतामिहोपह्वये श्रियम्॥9॥
ॐ मनसः काममाकूतिंवाचः सत्यमशीमहि।
पशूनां रूपमन्नस्य मयिश्रीः श्रयतां यशः॥10॥
ॐ कर्दमेन प्रजाभूतामयि सम्भव कर्दम।
श्रियं वासय मे कुलेमातरं पद्ममालिनीम्॥11॥
ॐ आपः सृजन्तु स्निग्धानिचिक्लीत वस मे गृहे।
निच देवीं मातरंश्रियं वासय मे कुले॥12॥
ॐ आर्द्रां पुष्करिणीं पुष्टिंपिङ्गलां पद्ममालिनीम्।
चन्द्रां हिरण्मयीं लक्ष्मींजातवेदो मऽआवह॥13॥
ॐ आर्द्रां यःकरिणीं यष्टिंसुवर्णां हेममालिनीम्।
सूर्यां हिरण्मयीं लक्ष्मींजातवेदो मऽआवह॥14॥
ॐ तां मऽआवह जातवेदोलक्ष्मीमनपगामिनीम्।
यस्यां हिरण्यं प्रभूतं गावोदास्योऽश्वान् विन्देयं पुरुषानहम्॥15॥
ॐ यः शुचिः प्रयतोभूत्वा जुहुयादाज्यमन्वहम्।
सूक्तं पञ्चदशर्चं चश्रीकामः सततं जपेत्॥16॥
ॐ पद्मानने पद्मिनि पद्मपत्रेपद्मप्रिये पद्मदलायताक्षि।
विश्वप्रिये विष्णुमनोऽनुकूलेत्वत्पादपद्मं मयि सन्निधत्स्व॥1॥
ॐ पद्मानने पद्मऊरुपद्माक्षी पद्मसम्भवे।
तन्मे भजसिं पद्माक्षीयेन सौख्यं लभाम्यहम्॥2॥
ॐ अश्वदायि गोदायीधनदायी महाधने।
धनं मे जुषतां देविसर्वकामांश्च देहि मे॥3॥
ॐ पुत्र पौत्रं धनं धान्यंहस्त्यश्वादि गवेरथम्।
प्रजानां भवसि माताआयुष्मन्तं करोतु मे॥4॥
ॐ धनमग्निर्धनं वायुर्धनंसूर्योधनं वसुः।
धनमिन्द्रो बृहस्पतिर्वरुणो धनमस्तु मे॥5॥
ॐ वैनतेय सोमं पिबसोमं पिबतु वृत्रहा।
सोमं धनस्य सोमिनोमह्यं ददातु सोमिनः॥6॥
ॐ न क्रोधो न च मात्सर्यंन लोभो नाशुभामतिः।
भवन्ति कृतपुण्यानां भक्तानांश्रीसूक्तजापिनाम्॥7॥
ॐ सरसिजनिलये सरोजहस्तेधवलतरांशुक गन्धमाल्यशोभे।
भगवति हरिवल्लभे मनोज्ञेत्रिभुवनभूतिकरि प्रसीद मह्यम्॥8॥
ॐ विष्णुपत्नीं क्षमां देवींमाधवीं माधवप्रियाम्।
लक्ष्मीं प्रियसखीं देवींनमाम्यच्युत वल्लभाम्॥9॥
ॐ महालक्ष्म्यै चविद्महे विष्णुपत्न्यै।
च धीमहि तन्नोलक्ष्मीः प्रचोदयात्॥10॥
ॐ चन्द्रप्रभां लक्ष्मीमैशानींसूर्याभांलक्ष्मीर्मेश्वरीम्।
चन्द्र सूर्याग्निसंकाशांश्रियं देवीमुपास्महे॥11॥
ॐ आनन्दः कर्दमःश्रीदशिचक्लीत इति विश्रुताः।
ऋषयश्च श्रियः पुत्राःमयि श्रीर्देविदेवता मताः॥12॥
ॐ ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः।
भयशोकमनस्तापनश्यंतु मम सर्वदा॥13॥
ॐ श्रीवर्चस्वमायुष्यमारोग्यमाविधाच्छोभमानं महीयते।
धनं धान्यं पशुंबहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः॥14॥