॥ श्रीविष्णोः षोडशनामस्तोत्रम् ॥
औषधे चिन्तयेद्विष्णुंभोजने च जनार्दनम्।
शयने पद्मनाभं चविवाहे च प्रजापतिम्॥1॥
युद्धे चक्रधरं देवंप्रवासे च त्रिविक्रमम्।
नारायणं तनुत्यागेश्रीधरं प्रियसङ्गमे॥2॥
दुःस्वप्ने स्मर गोविन्दंसङ्कटे मधुसूदनम्।
कानने नारसिंहं चपावके जलशायिनम्॥3॥
जलमध्ये वराहं चपर्वते रघुनन्दनम्।
गमने वामनं चैवसर्वकार्येषु माधवम्॥4॥
षोडशैतानि नामानिप्रातरूत्थाय यः पठेत्।
सर्वपापविर्निमुक्तोविष्णुलोके महीयते॥5॥