विनायको विघ्नराजोगौरीपुत्रो गणेश्वरः।
स्कन्दाग्रजोऽव्ययो पूतोदक्षोऽध्यक्षो द्विजप्रियः॥1॥
अग्निगर्भच्छिदिन्द्रश्रीप्रदोवाणीबलप्रदः।
सर्वसिद्धिप्रदश्शर्वतनयःशर्वरीप्रियः॥2॥
सर्वात्मकः सृष्टिकर्तादेवोऽनेकार्चितश्शिवः।
शुद्धो बुद्धिप्रियश्शान्तोब्रह्मचारी गजाननः॥3॥
द्वैमात्रेयो मुनिस्तुत्योभक्तविघ्नविनाशनः।
एकदन्तश्चतुर्बाहुश्-चतुरश्शक्तिसंयुतः॥4॥
लम्बोदरश्शूर्पकर्णोहरिर्ब्रह्म विदुत्तमः।
कालो ग्रहपतिः कामीसोमसूर्याग्निलोचनः॥5॥
पाशाङ्कुशधरश्चण्डोगुणातीतो निरञ्जनः।
अकल्मषस्स्वयं-सिद्धस्सिद्धार्चितपदाम्बुजः॥6॥
बीजपूरफलासक्तोवरदश्शाश्वतः कृतिः।
द्विजप्रियो वीतभयोगदी चक्रीक्षुचापधृत्॥7॥
श्रीदोऽजोत्पलकरःश्रीपतिः स्तुतिहर्षितः।
कुलाद्रिभेत्ता जटिलःकलिकल्मषनाशनः॥8॥
चन्द्रचूडामणिः कान्तःपापहारी समाहितः।
आश्रितश्श्रीकरस्सौम्योभक्तवाञ्छितदायकः॥9॥
शान्तः कैवल्यसुखदस्-सच्चिदानन्दविग्रहः।
ज्ञानी दयायुतो दान्तोब्रह्म द्वेषविवर्जितः॥10॥
प्रमत्तदैत्यभयदःश्रीकण्ट्ःओ विबुधेश्वरः।
रमार्चितोविधिर्-नागराजयज्ञोपवीतकः॥11॥
स्थूलकण्ठः स्वयङ्कर्तासामघोषप्रियः परः।
स्थूलतुण्डोऽग्रणीर्धीरोवागीशस्सिद्धिदायकः॥12॥
दूर्वाबिल्वप्रियोऽव्यक्त-मूर्तिरद्भुतमूर्तिमान्।
शैलेन्द्रतनुजोत्सङ्ग-खेलनोत्सुकमानसः॥13॥
स्वलावण्यसुधासारोजितमन्मथविग्रहः।
समस्तजगदाधारोमायी मूषकवाहनः॥14॥
हृष्टस्तुष्टः प्रसन्नात्मासर्वसिद्धिप्रदाकः।
अष्टोत्तरशतेनैवं नाम्नांविघ्नेश्वरं विभु॥15॥
तुष्टाव शङ्करःपुत्रं त्रिपुरं हन्तुमुत्यतः।
यः पूजयेदनेनैवभक्त्या सिद्धिविनायकम्॥16॥
दूर्वादलैर्बिल्वपत्रैःपुष्पैर्वा चन्दनाक्षतैः।
सर्वान्कामानवाप्नोतिसर्वविघ्नैः प्रमुच्यते



















