devotionally made & hosted in India
Search
Mic
Android Play StoreIOS App Store
Ads Subscription Disabled
सं
Setting
Clock
Ads Subscription DisabledRemove Ads
X

2024 यमद्वितीयायाः दिनं समयश्च नई दिल्ली, राष्ट्रीय राजधानी क्षेत्र, भारत कृते

DeepakDeepak

2024 यमद्वितीया

iOS Shubh Diwali AppAndroid Shubh Diwali App
दीवाली पूजा मुहूर्त, पूजा विधि, आरती, चालीसा आदि के लिए शुभ दीवाली ऐप इनस्टॉल करें
नई दिल्ली, भारत
यमद्वितीया
3वाँ
नवम्बर 2024
Sunday / रविवासरः
भगवान् यमराजः स्ववाहने महिषे आरूढः गच्छन्
Lord Yamaraja ridding on His mount buffalo

यमद्वितीयापूजामुहूर्तः

यमद्वितीया रविवासरः, नवम्बर 3, 2024 दिनाङ्के
यमद्वितीयापराह्णमुहूर्तः - 01:10 पी एम प्रति 03:22 पी एम
अवधि - 02 घटिका 12 निमिषः
भ्रातृद्वितीया रविवासरः, नवम्बर 3, 2024 दिनाङ्के
द्वितीया तिथि प्रारम्भ - नवम्बर 02, 2024 दिवसे 08:21 पी एम वादनम्
द्वितीया तिथि समाप्त - नवम्बर 03, 2024 दिवसे 10:05 पी एम वादनम्

टिप्पणी: सर्वे समयाः १२-घण्टा प्रारूपे नई दिल्ली, भारत नगरस्य स्थानीयसमयानुसारं डी.एस.टी समायोजनेन सह (यदि प्रयोज्यम्) प्रदर्शिताः सन्ति।
अर्धरात्रात् परं ये समयाः आगामिदिनस्य भवन्ति, ते आगामिदिनाङ्कसहिताः प्रदर्शिताः सन्ति। पञ्चाङ्गे दिनं सूर्योदयेन आरभ्य अग्रिमसूर्योदये समाप्यते।

2024 यमद्वितीया

यमद्वितीयापर्व कार्तिकमासस्य द्वितीयातिथौ आचर्यते। प्रायः यमद्वितीया दीपावलीपूजातः द्वयोः दिनयोः पश्चात् आगच्छति। यमद्वितीयायाः पावने पर्वणि मृत्योः देवः यमराजः पूज्यते। यमदेवेन सह भगवान् चित्रगुप्तः यमदूताः च अपि यमद्वितीयादिने पूज्यन्ते।

यमद्वितीयापूजनार्थम् अपराह्णकालः सर्वाधिकं समुचितः समयः भवति। अपराह्णकाले यमराजपूजनात् पूर्वं प्रातःकाले यमुनास्नानम् आचरणीयम् इति उपदिश्यते। पूजनानन्तरं भगवते यमाय अर्घ्यम् अवश्यं दातव्यम्।

यमपूजातिरिक्तम् इदं दिनं भ्रातृद्वितीया इति रूपेण अत्यन्तं लोकप्रियम् अस्ति। पौराणिककथानुसारं कार्तिकद्वितीयादिने देवी यमुना स्वभ्रातरं यमराजं स्वगृहे अभोजयत्। तदारभ्य इदं दिनं यमद्वितीया इति नाम्ना ज्ञायते। शास्त्रानुसारम् अस्मिन् शुभावसरे याः भगिन्यः स्वभ्रातॄन् भोजयन्ति, ताः अखण्डसौभाग्यवत्यः भवन्तु इति आशीर्वादं लभन्ते। अस्मिन् दिने भगिन्याः गृहे भोजनेन भ्रातरः दीर्घम् आयुः प्राप्नुवन्ति। अतः भ्रातृद्वितीयादिने भगिन्यः स्वभ्रातृभ्यः भोजनं पचन्ति तान् च स्वहस्तैः भोजयन्ति।

यमद्वितीयार्घ्यमन्त्रः

यमद्वितीयायाः पावने अवसरे निम्नोक्तं मन्त्रम् उच्चारयन् भगवते यमाय अर्घ्यं समर्पणीयम् -

यमद्वितीयामन्त्रः

एह्येहि मार्तण्डज पाशहस्त यमान्तकालोकधरामरेश।
भ्रातृद्वितीयाकृतदेवपूजां गृहाण चार्घ्यं भगवन्नमोऽस्तु ते॥

भावार्थः - हे सूर्यपुत्र! हे पाशहस्त! हे यम! हे अन्तक! हे लोकधर! हे अमरेश! भवान् मम आवाहनं स्वीकृत्य अत्र आगच्छतु। भ्रातृद्वितीयावसरे कृतां देवपूजाम् अर्पितम् अर्घ्यं च स्वीकरोतु। हे भगवन्! भवते पुनः पुनः नमः अस्तु।

Name
Name
Email
द्रिकपञ्चाङ्ग पर टिप्पणी दर्ज करने के लिये गूगल अकाउंट से लॉग इन करें।
टिप्पणी
और लोड करें ↓
❮
Kalash
कॉपीराइट नोटिस
PanditJi Logo
सभी छवियाँ और डेटा - कॉपीराइट
Ⓒ www.drikpanchang.com
प्राइवेसी पॉलिसी
द्रिक पञ्चाङ्ग और पण्डितजी लोगो drikpanchang.com के पञ्जीकृत ट्रेडमार्क हैं।
Android Play StoreIOS App Store
Drikpanchang Donation