॥ निर्वाणषट्कम् ॥
मनोबुद्ध्यहङ्कारचित्तानि नाहंन च श्रोत्रजिह्वे न च घ्राणनेत्रे।
न च व्योमभूमिर्न तेजो नवायुश्चिदानन्दरूपः शिवोऽहं शिवोऽहम्॥1॥
न च प्राणसंज्ञो न वै पञ्चवायुर्नवा सप्तधातुर्न वा पञ्चकोषाः।
न वाक्पाणिपादं न चोपस्थपायूचिदानन्दरूपः शिवोऽहं शिवोऽहम्॥2॥
न मे द्वेषरागौ न मे लोभमोहौमदो नैव मे नैव मात्सर्यभावः।
न धर्मो न चार्थो न कामो नमोक्षश्चिदानन्दरूपः शिवोऽहं शिवोऽहम्॥3॥
न पुण्यं न पापं न सौख्यं न दुःखंन मन्त्रो न तीर्थं न वेदा न यज्ञाः।
अहं भोजनं नैव भोज्यं न भोक्ताचिदानन्दरूपः शिवोऽहं शिवोऽहम्॥4॥
न मृत्युर्न शङ्का न मे जातिभेदःपिता नैव मे नैव माता न जन्म।
न बन्धुर्न मित्रं गुरुर्नैवशिष्यश्चिदानन्दरूपः शिवोऽहं शिवोऽहम्॥5॥
अहं निर्विकल्पो निराकाररूपोविभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम्।
न चासङ्गतं नैव मुक्तिर्नमेयश्चिदानन्दरूपः शिवोऽहं शिवोऽहम्॥6॥



















