devotionally made & hosted in India
Search
Mic
Android Play StoreIOS App Store
Ads Subscription Disabled
En
Setting
Clock
Ads Subscription DisabledRemove Ads
X

Sita Kavacham - Sanskrit Lyrics and Video Song

DeepakDeepak

Sita Kavacham

Sita Kavacham is a very divine prayer dedicated to Goddess Sita. This Kavacham is recited to please Goddess Sita. In Hinduism, Goddess Sita is worshipped as the incarnation of Goddess Lakshmi. When Lord Vishnu incarnated as Shri Rama Ji in Treta Yuga, Goddess Lakshmi also incarnated as Goddess Sita to marry Him.

॥ अथ श्रीसीताकवचम् ॥

॥ श्रीरामदास उवाच ॥

श‍ृणु शिष्य प्रवक्ष्यामि सीतायाः कवचं शुभम्।

पुरा प्रोक्तं सुतीक्ष्णाय पृच्छते कुम्भजन्मना॥1॥

एकदा कुम्भजन्मानं सुतीक्ष्णः प्राह वै मुनिः।

रहः स्थितं गुरु दृष्ट्वा प्रणम्य भक्तिपूर्वकम्॥2॥

॥ सुतीक्ष्ण उवाच ॥

गुरोऽहं श्रोतुमिच्छामि सीतायाः प्रीतिदानि हि।

यानि स्तोत्राणि कर्माणि तानि त्वं वक्तुमर्हसि॥3॥

॥ अगस्तिरुवाच ॥

सम्यक् पृष्टं त्वया वत्स सावधानमनाः श्रुणु।

आदौ वक्ष्याम्यहं रम्यं सीतायाः कवचं शुभम्॥1॥

या सीताऽवनिसम्भवाऽथ मिथिलापालेन संवर्धिता

पद्माक्षनृपतेः सुता नलगता या मातुलिङ्गोत्भवा।

या रत्ने लयमागता जलनिधौ या वेद वारं गता

लङ्कां सा मृगलोचना शशिमुखी मां पातु रामप्रिया॥2॥

॥ अथ विनियोगः ॥

अस्य श्रीसीताकवचमन्त्रस्य अगस्ति ऋषिः।

श्रीसीता देवता। अनुष्टुप् छन्दः। रामेति बीजम्।

जनकजेति शक्तिः। अवनिजेति कीलकम्।

पद्माक्षसुतेत्यस्त्रम्। मातुलिङ्गीति कवचम्।

मूलकासुरघातिनीति मन्त्रः।

श्रीसीतारामचन्द्रप्रीत्यर्थं सकलकामना

सिद्ध्यर्थं जपे विनियोगः॥

॥ अथ अङ्गुळीन्यासः ॥

ॐ ह्रां सीतायै अङ्गुष्ठाभ्यां नमः।

ॐ ह्रीं रमायै तर्जनीभ्यां नमः।

ॐ ह्रूं जनकजायै मध्यमाभ्यां नमः।

ॐ ह्रैं अवनिजायै अनामिकाभ्यां नमः।

ॐ ह्रौं पद्माक्षसुतायै कनिष्ठिकाभ्यां नमः।

ॐ ह्रः मातुलिङ्ग्यै करतलकरपृष्ठाभ्यां नमः॥

॥ हृदयादिन्यासः ॥

ॐ ह्रां सीतायै हृदयाय नमः।

ॐ ह्रीं रमायै शिरसे स्वाहा।

ॐ ह्रूं जनकजायै शिखायै वषट्।

ॐ ह्रैं अवनिजायै कवचाय हुम्।

ॐ ह्रौं पद्माक्षसुतायै नेत्रत्रयाय वौषट्।

ॐ ह्रः मातुलिङ्ग्यै अस्त्राय फट्।

भूर्भुवःसुवरोमिति दिग्बन्धः॥

॥ अथ ध्यानम् ॥

सीतां कमलपत्राक्षीं विद्युत्पुञ्चसमप्रभाम्।

द्विभुजां सुकुमाराङ्गीं पीतकौशेयवासिनीम्॥1॥

सिंहासने रामचन्द्रवामभागस्थितां वराम्।

नानालङ्कारसम्युक्तां कुण्डलद्वयधारिणीम्॥2॥

चूडाकङ्कणकेयूररशनानूपुरान्विताम्।

सीमन्ते रविचन्द्राभ्यां निटिले तिलकेन च॥3॥

मयूराभरणेनापि घ्राणेऽतिशोभितां शुभाम्।

हरिद्रां कज्जलं दिव्यं कुङ्कुमं कुसुमानि च॥4॥

बिभ्रन्तीं सुरभिद्रव्यं सगन्ध स्नेहमुत्तमम्।

स्मिताननां गौरवर्णां मन्दारकुसुमं करे॥5॥

बिभ्रन्तीमपरे हस्ते मातुलिङ्गमनुत्तमम्।

रम्यवासां च बिम्बोष्ठीं चन्द्रवाहनलोचनाम्॥6॥

कलानाथसमानास्यां कलकण्ठमनोरमाम्।

मातुलिङ्गोद्भवां देवीं पद्माक्षदुहितां शुभाम्॥7॥

मैथिलीं रामदयितां दासीभिः परिवीजिताम्।

एवं ध्यात्वा जनकजां हेमकुम्भपयोधराम्॥8॥

सीतायाः कवचं दिव्यं पठनीयं शुभावहं॥9॥

॥ अथ कवचम् ॥

ॐ श्रीसीता पूर्वतः पातु दक्षिणेऽवतु जानकी।

प्रतीच्यां पातु वैदेही पातूदीच्यां च मैथिली॥1॥

अधः पातु मातुलिङ्गी ऊर्ध्वं पद्माक्षजावतु।

मध्येऽवनिसुता पातु सर्वतः पातु मां रमा॥2॥

स्मितानना शिरः पातु पातु भालं नृपात्मजा।

पद्माऽवतु भृवोर्मध्ये मृगाक्षी नयनेऽवतु॥3॥

कपोले कर्णमूले च पातु श्रीरामवल्लभा।

नासाग्रं सात्त्विकी पातु पातु वक्त्रं तु राजसी॥4॥

तामसी पातु मद्वाणीं पातु जिह्वां पतिव्रता।

दन्तान् पातु महामाया चिबुकं कनकप्रभा॥5॥

पातु कण्ठं सौम्यरूपा स्कन्धौ पातु सुरार्चिता।

भुजौ पातु वरारोहा करौ कङ्कणमण्डिता॥6॥

नखान् रक्तनखा पातु कुक्षौ पातु लघूदरा।

वक्षः पातु रामपत्नी पार्श्वे रावणमोहिनी॥7॥

पृष्ठदेशे वह्निगुप्ताऽवतु मां सर्वदैव हि।

दिव्यप्रदा पातु नाभिं कटिं राक्षसमोहिनी॥8॥

गुह्यं पातु रत्नगुप्ता लिङ्गं पातु हरिप्रिया।

ऊरू रक्षतु रम्भोरू जानुनी प्रियभाषिणी॥9॥

जङ्घे पातु सदा सुभ्रूः गुल्फौ चामरवीजिता।

पादौ लवसुता पातु पात्वङ्गानि कुशाम्बिका॥10॥

पादाङ्गुळीः सदा पातु मम नूपुरनिःस्वना।

रोमाण्यवतु मे नित्यं पीतकौशेयवासिनी॥11॥

रात्रौ पातु कालरूपा दिने दानैकतत्परा।

सर्वकालेषु मां पातु मूलकासुरघातिनी॥12॥

एवं सुतीक्ष्ण सीतायाः कवचं ते मयेरितम्।

इदं प्रातः समुत्थाय स्नात्वा नित्यं पठेत्तु यः॥13॥

जानकीं पूजयित्वा स सर्वान् कामानवाप्नुयात्।

धनार्थी प्राप्नुयाद्द्रव्यं पुत्रार्थी पुत्रमाप्नुयात्॥14॥

स्त्रीकामार्थी शुभां नारीं सुखार्थि सौख्यमाप्नुयात्।

अष्टवारं जपनीयं सीतायाः कवचं सदा॥15॥

अष्टभ्यो विप्रवर्येभ्यो नरः प्रीत्यार्पयेत् सदा।

फलपुष्पादिकादीनि यानि यानि पृथक् पृथक्॥16॥

सीतायाः कवचं चेदं पुण्यं पातकनाशनम्।

ये पठन्ति नरा भक्त्या ते धन्या मानवा भुवि॥17॥

पठन्ति रामकवचं सीतायाः कवचं विना।

तथा विना लक्ष्मणस्य कवचेन वृथा स्मृतम्॥18॥

तस्मात् सदा नरैर्जाप्यं कवचानां चतुष्टयम्।

आदौ तु वायुपुत्रस्य लक्ष्मणस्य ततः परम्॥19॥

ततः पठेच्च सीतायाः श्रीरामस्य ततः परम्।

एवं सदा जपनीयं कवचानां चतुष्टयम्॥20॥

॥ इति श्रीशतकोटिरामायणान्तर्गते श्रीमदानन्दरामायणे वाल्मिकीये
मनोहरकाण्डे चतुर्दशसर्गान्तर्गतं श्रीसीताकवचं सम्पूर्णम् ॥
Name
Name
Email
Sign-in with your Google account to post a comment on Drik Panchang.
Comments
Show more ↓
Kalash
Copyright Notice
PanditJi Logo
All Images and data - Copyrights
Ⓒ www.drikpanchang.com
Privacy Policy
Drik Panchang and the Panditji Logo are registered trademarks of drikpanchang.com
Android Play StoreIOS App Store
Drikpanchang Donation